जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम्।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्॥
नानाचित्रकथाश्चान्या विश्वामित्रसमागमे।
जानक्याश्च विवाहं च धनुषश्च विभेदनम्॥
रामरामविवादं च गुणान्दाशरथेस्तथा।
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्॥
विघातं चाभिषेकस्य रामस्य च विवासनम्।
राज्ञः शोकविलापं च परलोकस्य चाश्रयम्॥
प्रकृतीनां विषादं च प्रकृतीनां च विसर्जनम्।
निषादाधिपसंवादं सूतोपावर्तनं तथा॥
गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम्।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्॥
वास्तुकर्म विवेशं च भरतागमनं तथा।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम्॥
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम्।
दण्डकारण्यगमनं विराधस्य वधं तथा॥
दर्शनं शारभङ्गस्य सुतीक्ष्णेनाभिसङ्गमम्।
अनसूयासहास्यामप्यङ्गरागस्य चार्पणम्॥
अगस्त्यदर्शनं चैव जटायोरभिसङ्गमम्।
पञ्चवट्याश्च गमनं शूर्पणख्याश्च दर्शनम्॥
शूर्पणख्याश्च संवादं विरूपकरणं तथा।
वधं खरत्रिशिरसोरुत्थानं रावणस्य च॥
मारीचस्य वधं चैव वैदेह्या हरणं तथा।
राघवस्य विलापं च गृध्रराजनिबर्हणम्॥
कबन्धदर्शनं चापि पम्पायाश्चापि दर्शनम्।
शबर्या दर्शनं चैव हनूमद्दर्शनं तथा।
विलापं चैव पम्पायां राघवस्य महात्मनः॥
ऋश्यमूकस्य गमनं सुग्रीवेण समागमम्।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवैग्रहम्॥
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्।
ताराविलापं समयं वर्षरात्रनिवासनम्॥
कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम्।
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्॥
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्।
प्रायोपवेशनं चैव सम्पातेश्चैव दर्शनम्॥
पर्वतारोहणं चैव सागरस्य च लङ्घनम्।
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम्॥
राक्षसीतर्जनं चैव छायाग्राहस्य दर्शनम्।
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम्।
रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम्॥
आपानभूमिगमनम् अवरोधस्य दर्शनम्।
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्॥
अशोकवनिकायानं सीतायाश्चैव दर्शनम्।
अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम्॥
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्।
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च॥
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम्।
पञ्चसेनाग्र्यनिधनं सप्तमन्त्रिनिबर्हणम्॥
तथाक्षस्यापि निधनं तोरणस्य विभञ्जनम्।
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्॥
प्रतिप्लवनमेवाथ मधूनां हरणं तथा।
राघवाश्वासनं चैव मणिनिर्यातनं तथा॥
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम्।
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्॥
विभीषणेन संसर्गं वधोपायनिवेदनम्।
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्॥
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे।
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम्॥
अयोध्यायाश्च गमनं भरतेन समागमम्।
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्।
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्॥
अनागतं च यत्किञ्चिद्रामस्य वसुधातले।
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवान् ऋषिः॥