ह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ। उच्चैःस्वरेण चुक्रोश प्रगृह्य सुमहाभुजौ॥
एष दाशरथी रामः सत्यवाञ्छीलवाञ्छुचिः। रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः॥
मां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा। मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम।।
तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ। वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः॥
तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह।रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः॥
स भग्नबाहुः संविग्नो निपपाताशु राक्षसः। धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः॥