Canto 3 -
Araṇya-kāṇḍa
Chapter 38: Mārīca Instructs Rāvaṇa
Text 3.38.32

सीताहेतोः समग्राणि विद्रविष्यन्ति भीतवत्॥

sītā-hetoḥ samagrāṇi vidraviṣyanti bhītavat

sītā-hetoḥ = because of Sītā; samagrāṇi = everything; vidraviṣyanti = will desertg [you]; bhītavat = as if in fear.

Because of Sītā, everything will desert [you], as if in fear.

आत्मनश्च दशग्रीव पुरस्यान्तःपुरस्य च।
रक्षसां च विनाशाय मैथिलीमानयिष्यसि।
मा नाशय त्वं राज्यं च जीवितं चेष्टमात्मनः॥