कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम्।बलं नागसहस्रस्य धारयन्पर्वतोपमः॥
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः।भयं लोकस्य जनयन्किरीटी परिघायुधः।व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन्॥
विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः।स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्॥
अयं रक्षतु मां रामः पर्वकाले समाहितः।मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर॥
इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा।प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्॥
बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः।कामं तु मम यत्सैन्यं मया सह गमिष्यति॥
बलेन चतुरङ्गेण स्वयमेत्य निशाचरान्।वधिष्यामि मुनिश्रेष्ठ शत्रूंस्ते मनसेप्सितान्॥
इत्येवमुक्तः स मुनी राजानमिदमब्रवीत्।रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः॥
देवतानामपि भवान्समरेष्वभिपालकः।आसीत्तव कृतं कर्म त्रिलोके विदितं नृप॥
काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप॥
बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे।गमिष्ये राममादाय स्वस्ति तेऽस्तु परन्तप॥
एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम्।जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्॥
तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्।बभूवोपस्थितो रामश्चित्रं विस्फारयन्धनुः॥
अजातव्यञ्जनः श्रीमान्पद्मपत्रनिभेक्षणः।एकवस्त्रधरो धन्वी शिखी कनकमालया॥
शोभयन्दण्डकारण्यं दीप्तेन स्वेन तेजसा।अदृश्यत ततो रामो बालचन्द्र इवोदितः॥
ततोऽहं मेघसङ्काशस्तप्तकाञ्चनकुण्डलः।बली दत्तवरो दर्पादाजगाम तदाश्रमम्॥
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः।मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार सः॥
अवजानन्नहं मोहाद्बालोऽयमिति राघवम्।विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः॥
तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः।तेनाहं त्वाहतः क्षिप्तः समुद्रे शतयोजने॥
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः।रामस्य शरवेगेन निरस्तोऽहमचेतनः॥
पातितोऽहं तदा तेन गम्भीरे सागराम्भसि।प्राप्य संज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम्॥
एवमस्मि तदा मुक्तः सहायास्तु निपातिताः।अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा॥
तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम्।करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण॥
क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम्।रक्षसां चैव सन्तापमनर्थं चाहरिष्यसि॥
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम्।द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते॥
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्।परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा॥
दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान्।द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान्॥
हृतदारान्सदारांश्च दश विद्रवतो दिशः।हतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान्॥
शरजालपरिक्षिप्तामग्निज्वालासमावृताम्।प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः॥
परदाराभिमर्शात्तु नान्यत्पापतरं महत्।प्रमदानां सहस्राणि तव राजन्परिग्रहः॥
भव स्वदारनिरतः स्वकुलं रक्ष राक्षस।मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः॥
सीताहेतोः समग्राणि विद्रविष्यन्ति भीतवत्॥
आत्मनश्च दशग्रीव पुरस्यान्तःपुरस्य च।रक्षसां च विनाशाय मैथिलीमानयिष्यसि।मा नाशय त्वं राज्यं च जीवितं चेष्टमात्मनः॥
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च।यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्॥
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि।गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः॥