रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह।किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति॥
शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ।ज्येष्ठपुत्रे स्थिते राजन्न कनीयान्नृपो भवेत्॥
स समृद्धां मया सार्धमयोध्यां गच्छ राघव।अभिषेचय चात्मानं कुलस्यास्य भवाय नः॥
राजानं मानुषं प्राहुर्देवत्वे स मतो मम।यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्॥
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते।दिवमार्यो गतो राजा यायजूकः सतां मतः॥
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे।दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात्॥
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः।अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ॥
प्रियेण खलु दत्तं हि पितृलोकेषु राघव।अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः॥
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम्।त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमितः पिता ते॥