एवं ब्रुवति काकुत्स्थे विश्वामित्रो महायशाः।
संहारं व्याजहाराथ धृतिमान्सुव्रतः शुचिः॥
सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च।
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखं॥
लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ।
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ॥
पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ।
ज्योतिषं कृशनं चैव नैराश्यविमलावुभौ॥
योगन्धरहरिद्रौ च दैत्यप्रशमनौ तथा।
शुचिर्बाहुर्महाबाहुर्निकुलिर्विरुचिस्तथा।
सार्चिमाली धृतिर्माली वृत्तिमान्रुचिरस्तथा॥
पित्र्यं सौमनसं चैव विधूतमकरावुभौ।
करवीरकरं चैव धनधान्यौ च राघव॥
कामरूपं कामरुचिं मोहमावरणं तथा।
जृम्भकं सर्वनाभं च सन्तानवरणौ तथा॥