इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ।
अश्विनाविव रूपेण समुपस्थितयौवनौ॥
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ॥
बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती।
काकपक्षधरौ वीरौ कुमाराविव पावकी।
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणौ॥
प्राकाश्यं कुलमस्माकं मामुद्धर्तुमिहागतौ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥