ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः।राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्॥
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्।व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः॥
चतुरङ्गं बलं चापि शीघ्रं निर्यातु सर्वशः।ममाज्ञासमकालं च यानयुग्यमनुत्तमम्॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः।मार्कण्डेयः सुदीर्घायुरृषिः कात्यायनस्तथा॥
एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे।यथा कालात्ययो न स्याद्दूता हि त्वरयन्ति माम्॥
इत्युक्त्वा स महातेजा राजा दशरथो रथम्।आरुरोह यथा भानुर्भगवान्रघुनन्दनः॥
वचनात्तु नरेन्द्रस्य सा सेना चतुरङ्गिणी।राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वगात्॥
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्।राजा तु जनकः श्रीमाञ्श्रुत्वा पूजामकल्पयत्॥
ततो राजानमासाद्य वृद्धं दशरथं नृपम्।जनको मुदितो राजा हर्षं च परमं ययौ।उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदान्वितः॥
स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव।पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्॥
दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः।सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः॥
दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्।राघवैः सह सम्बन्धो वीर्यश्रेष्ठैर्महात्मभिः॥
श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि।यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसम्मतम्॥
तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः।वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्॥
प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा।यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम्॥
धर्मिष्ठं च यशस्यं च वचनं सत्यवादिनः।श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः॥
ततः सर्वे मुनिगणाः परस्परसमागमे।हर्षेण महता युक्तास्तां निशामवसन्सुखम्॥
अथ रामो महातेजा लक्ष्मणेन समं ययौ।विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन्॥
राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः।उवास परमप्रीतो जनकेनाभिपूजितः॥
जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित्।यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह॥