प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः।चकार चरितं कृत्स्नं विचित्रपदमात्मवान्॥
चतुर्विंशतिसहस्राणि श्लोकानामुक्तवानृषिः।तथा सर्गशतान्पञ्च षट्काण्डानि तथोत्तरम्॥
कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम्।चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः॥
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः।अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ॥
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ।भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ॥
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ।वेदोपबृंहणार्थाय तावग्राहयत प्रभुः॥
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्।पौलस्त्यवधमित्येव चकार चरितव्रतः॥
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम्।जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम्॥
रसैः शृङ्गारकारुण्यहास्यवीरभयानकैः।रौद्रादिभिश्च संयुक्तं काव्यमेतदगायताम्॥
तौ तु गान्धर्वतत्त्वज्ञौ मूर्छनास्थानकोविदौ।भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ॥
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ।बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ॥
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम्।वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ॥
ऋषीणां च द्विजातीनां साधूनां च समागमे।यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ।महात्मानौ महाभागौ सर्वलक्षणलक्षितौ॥
तौ कदाचित्समेतानामृषीणां भावितात्मनाम्।आसीनानां समीपस्थौ इदं काव्यमगायताम्॥
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः।साधु साध्विति तावूचुः परं विस्मयमागताः॥
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः।प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ॥
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः।चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्॥
प्रविश्य तावुभौ सुष्ठु तदा भावमगायताम्।सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा॥
एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महात्मभिः।संरक्ततरमत्यर्थं मधुरं तावगायताम्॥
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ।प्रसन्नो वल्कले कश्चिद्ददौ ताभ्यां महायशाः॥
अन्यः कृष्णाजिनं प्रादाद्यज्ञसूत्रमथापरः।कश्चित्कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः॥
बृसीमन्यस्तदा प्रादात्कौपीनमपरो मुनिः।ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः॥
काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः।जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः॥
यज्ञभाण्डमृषिः कश्चित्काष्ठभारं तथापरः।औदम्बरीं बृसीमन्ये स्वस्ति केचित्तदावदत्॥
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः।ददुश्चैव वरान्सर्वान्मुनयः सत्यवादिनः॥
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम्।परं कवीनामाधारं समाप्तंच यथाक्रमम्॥
अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ।आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम्॥
प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ।रथ्यासु राजमार्गेषु ददर्श भरताग्रजः॥
स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ।पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः॥
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः।उपोपविष्टः सचिवैर्भ्रातृभिश्च समन्वितः॥
दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तदा।उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा॥
श्रूयतामिदमाख्यानमनयोर्देववर्चसोः।विचित्रार्थपदं सम्यग्गायिनौ तावचोदयत्॥
तौ चापि मधुरं रक्तं स्वञ्चितायतनिःस्वनम्।तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम्॥
ह्लादयत्सर्वगात्राणि मनांसि हृदयानि च।श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि॥
इमौ मुनी पार्थिवलक्षणान्वितौ।कुशीलवौ चैव महातपस्विनौ॥
ममापि तद्भूतिकरं प्रवक्ष्यते।महानुभावं चरितं निबोधत॥
ततस्तु रामवचःप्रचोदितावगायतां मार्गविधानसम्पदा।स चापि रामः परिषद्गतः शनैर्बुभूषया सक्तमना बभूव ह॥