चन्दनानां च मुख्यानामगरूणां च सञ्चयैः।
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च॥
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि।
शोभमानमसम्बाधं तं राजपथमुत्तमम्॥
संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि।
ददर्श तं राजपथं दिवि देवैपथं यथा॥
दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः।
नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्॥
आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान्।
यथार्हं चापि सम्पूज्य सर्वानेव नरान्ययौ॥