ततो वै यजमानस्य पावकादतुलप्रभम्।
प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम्॥
कृष्णं रक्ताम्बरधरं रक्ताक्षं दुन्दुभिस्वनम्।
स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्॥
शुभलक्षणसम्पन्नं दिव्याभरणभूषितम्।
शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्॥
दिवाकरसमाकारं दीप्तानलशिखोपमम्।
सिंहस्कन्धं महाबाहुमङ्गदद्वयशोभितम्॥
ताराविकृतकल्पेन हारेणोरसि राजितम्।
ताराधिपतिकल्पैश्च दन्तैः परमशोभितम्॥
ज्वलन्निव च तेजोभिर्दीपयन्निव च श्रिया।
तप्तजाम्बूनदमयैर्भूषणैर्भूषितं च यत्॥
तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्।
दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम्।
प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव॥