सुवाससः सुवेषाश्च ते सर्वे सुशीलिनः।
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा॥
गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे।
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात्॥
अभितो गुणवन्तश्च न चासन्गुणवर्जिताः।
सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः।
मन्त्रसंवरणे शक्ताः श्लक्ष्णाः सूक्ष्मासु बुद्धिषु॥
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः।
ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः।
उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम्॥