अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ।देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः॥
भगवञ्श्रोतुमिच्छावो यस्मिन्काले निशाचरौ।संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम्॥
एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया।सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ॥
अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम्।दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति॥
तौ च तद् वचनं श्रुत्वा राजपुत्रौ यशस्विनौ।अनिद्रौ षदहोरात्रं तपोवनमरक्षताम्॥
उपासां चक्रतुर्वीरौ यत्तौ परमधन्विनौ।ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ॥
अथ काले गते तस्मिन्षष्ठेऽहनि समागते।सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः॥
रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया।प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता॥
सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया।विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा॥
मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते।|एवं प्रवर्तिते यज्ञे विश्वामित्रस्य धीमतः।आकाशे च महाञ्शब्दः प्रादुरासीद्भयानकः॥
आवार्य गगनं मेघो यथा प्रावर्षि निर्गतः।तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम्॥
मारीचश्च सुबाहुश्च तयोरनुचराश्च ये।आगम्य भीमसङ्काशा रुधिरौघमवासृजन्॥
सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता।दृष्ट्वा वेदिं तथाभूतां सानुजः क्रोधसंयुतः।सहसाभिद्रुतो रामस्तानपश्यत्ततो दिवि॥
तावापन्ततौ सहसा दृष्ट्वा राजीवलोचनः।असंभ्रान्तस्त्वरन्किञ्चित्सज्यं कृत्वा महद्धनुः।लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत्॥
पश्य लक्ष्मण दुर्वृत्तान्राक्षसान्पिशिताशनान्।मानवास्त्रसमाधूताननिलेन यथा घनान्॥
करिष्यामि न सन्देहो नोत्सहे हन्तुमीदृशान्।इत्युक्त्वा वचनं रामश्चापे सन्धाय वेगवान्॥
एवं वदन्तं तं दृष्ट्वा धनुःप्रवरपाणिनम्।बालोऽयमिति विज्ञाय तमनादृत्य दुर्मती।विश्वामित्रस्य तां वेदिं सत्वरावभ्यधावताम्॥
तावुदीक्ष्य त्वरन्रामश्चापमायम्य वीर्यवान्।मानवं परमोदारं अस्त्रं परमभास्वरम्।चिक्षेप परमक्रुद्धो मारीचोरसि राघवः॥
स तेन परमास्त्रेण मानवेन समाहितः।सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे॥
विचेतनं विघूर्णन्तं शीतेषुबलताडितम्।निरस्तं दृश्य मारीचं रामोलक्ष्मणमब्रवीत्॥
पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम्।मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत॥
इमानपि वधिष्यामि निर्घृणान्दुष्टचारिणः।राक्षसान्पापकर्मस्थान्यज्ञघ्नान्रुधिराशनान्॥
इत्य् उक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव।सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम्।सुबाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि॥
शेषान्वायव्यमादाय निजघान महायशाः।राघवः परमोदारो मुनीनां मुदमावहन्॥
स हत्वा राक्षसान्सर्वान्यज्ञघ्नान्रघुनन्दनः।ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा॥
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः।निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत्॥
कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया।सिद्धाश्रमं सत्यं कृतं राम महायशः।स हि रामं प्रशस्यैवं ताभ्यां सन्ध्यामुपागमत्॥