रामस्तु सहितो भ्रात्रा सीतया च परन्तपः। सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः॥
स गत्वाऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः।ददर्श विपुलं शैलं महामेघमिवोन्नतम्॥
ततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः।काननं तौ विविशतुः सीतया सह राघवौ॥
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्।ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्॥
तत्र तापसमासीनं मलपङ्कजटाधरम्।रामः सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत॥
रामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः।त्वं माभिवद धर्मज्ञ महर्षे सत्यविक्रम॥
स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम्।समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्॥
स्वागतं खलु ते वीर राम धर्मभृतां वर।आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम्॥
प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः।देवलोकमितो वीर देहं त्यक्त्वा महीतले॥
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः॥
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम्।राजा दशरथो राममभिषेचयितानघम्॥
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता।कैलासशिखराकारात्प्रासादादवरोहत॥
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी।शयानामेत्य कैकेयीमिदं वचनमब्रवीत्॥
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते।उपप्लुतमघौघेन किमात्मानं न बुध्यसे॥
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे।चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे॥
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः।कुब्जया पापदर्शिन्या विषादमगमत्परम्॥
कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे।विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्।मन्थरे तद्ब्रवीह्यद्य कुतस्ते भयमागतम्॥
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्।उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा॥
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी।विषादयन्ती प्रोवाच भेदयन्ती च राघवम्॥
अक्षय्यं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्।रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति॥
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता।दह्यमानानलेनेव त्वद्धितार्थमिहागता॥
तव दुःखेन कैकेयि मम दुःखं महद्भवेत्।त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः॥
नराधिपकुले जाता महिषी त्वं महीपतेः।उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे॥
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः।शुद्धभावेन जानीषे तेनैवमतिसन्धिता॥