नगराणि च राष्ट्राणि सरितश्च तथा गिरीन्।
आश्रमान्क्रमशो राम विचरन्नाजगाम ह॥
वसिष्ठस्याश्रमपदं नानावृक्षसमाकुलम्।
नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥
देवदानवगन्धर्वैः किन्नरैरुपशोभितम्।
प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्॥
ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम्।
तपश्चरणसम्सिद्धैरग्निकल्पैर्महात्मभिः॥
सततं सङ्कुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः।
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा।
फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः॥
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः।
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्॥