गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः।वरुणायाप्रमेयाय ददौ हस्ते ससायकम्॥
अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्।पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः॥
जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी।अयोध्याभिमुखी सेना त्वया नाथेन पालिता॥
सन्दिशस्व महाराज सेनां त्वच्छासने स्थितान्।शासनं काङ्क्षते सेना चातकालिर्जलं यथा॥
रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्।बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम्॥
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः।पुनर्जातं तदा मेने पुत्रमात्मानमेव च॥
चोदयामास तां सेनां जगामाशु ततः पुरीम्॥
पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्।सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्॥
राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः।सम्पूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम्॥
पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः।पुत्रैरनुगतः श्रीमाञ्श्रीमद्भिश्च महायशाः॥
प्रविवेश गृहं राजा हिमवत्सदृशं पुनः॥ननन्द सजनो राजा गृहे कामैः सुपूजितः॥
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा।वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः॥
रामं च लक्ष्मणं चैव शत्रुघ्नं भरतं तथा।आर्चयन्मङ्गलाशीर्भिर्मङ्गलैरभ्यपूजयन्।उपाहारैश्च संहृष्टाः कुमारानभिपूज्य च॥
ततः सीतां महाभागामूर्मिलां च यशस्विनीम्।कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः॥
मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः।देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्॥
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा।स्वं स्वं गृहमथासाद्य कुवेरभवनोपमम्॥
गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान्।रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः॥
कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि।कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः॥
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः।काले काले तु नीतिज्ञास्तोषयन्तो गुरुं गुणैः॥
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्।अभिवादयितुं प्राप्तं श्यामं कमललोचनम्।अक्लिष्टकारिणं शूरं परसैन्यविमर्दनम्॥
विनयं देहयोगेन सम्प्राप्तमिव संस्थितम्।भरतं कैकयीपुत्रमब्रवीद्रघुनन्दनः॥
अयं केकयराजस्य पुत्रो वसति पुत्रक।त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव॥
प्रार्थितस्तेन धर्मज्ञ मिथिलायामहं तदा।ऋषिमध्ये तु तस्य त्वं प्रीतिं कर्तुमिहार्हसि॥
श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः।अभिवाद्य गुरुं रामं परिष्वज्य च लक्ष्मणम्।गमनायाभिचक्राम शत्रुघ्नसहितस्तदा॥
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्।मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ॥
युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः।स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह॥
गते च भरते रामो लक्ष्मणश्च महाबलः।पितरं देवसङ्काशं पूजयामासतुस्तदा॥
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः।चकार रामो धर्मात्मा प्रियाणि च हितानि च॥
मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः।गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत॥
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तदा।रामस्य शीलवृत्तेन सर्वे विषयवासिनः॥
तेषामतियशा लोके रामः सत्यपराक्रमः।स्वयंभूरिव भूतानां बभूव गुणवत्तरः॥
रामस्तु सीतया सार्धं विजहार बहूनृतून्।मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः॥
प्रिया तु सीता रामस्य दाराः पितृकृता इति।गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभ्यवर्धत।हृदयं चैव जानाति प्रीतियोगि परस्परम्॥
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते।अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा॥
तस्य भूयो विशेषेण मैथिली जनकात्मजा।देवताभिः समा रूपे सीता श्रीरिव रूपिणी॥
तया स राजर्षिसुतोऽभिरामया समेयिवानुत्तमराजकन्यया।अतीव रामः शुशुभेऽतिकामया विभुः श्रिया विष्णुरिवामरेश्वरः॥