ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्।कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम्॥
राघवे नरशार्दूले विषमुप्त्वा विजिह्मताम्।विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी॥
विवास्य रामं सुभगा लब्धकामा समाहिता।त्रासयिष्यति मां भूयो दुष्टाहिरिव वेशमनि॥
अथ स्म नगरे रामश्चरन्भैक्षं गृहे वसेत्।कामकारो वरं दातुमपि दासं ममात्मजम्॥
पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः।प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना॥
गजराजगतिर्वीरो महाबाहुर्धनुर्धरः।वनमाविशते नूनं सभार्यः सहलक्ष्मणः॥
वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वया।त्यक्तानां वनवासाय का न्ववस्था भविष्यति॥
ते रत्नहीनास्तरुणाः फलकाले विवासिताः।कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः॥
अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः।सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम्॥
श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति।यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी॥
कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ।नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि॥
कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति।पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव॥
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ।लाजैरवकिरिष्यन्ति प्रविशन्तावरिन्दमौ॥
प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ।उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ॥
कदा सुमनसः कन्या द्विजातीनां फलानि च।प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्॥
कदा परिणतो बुद्ध्या वयसा चामरप्रभः।अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव लालयन्॥
निःसंशयं मया मन्ये पुरा वीर कदर्यया।पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः॥
साहं गौरिव सिंहेन विवत्सा वत्सला कृता।कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्॥
न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्।एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे॥
न हि मे जीविते किञ्चित्सामर्थ्यमिह कल्प्यते।अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम्॥
अयं हि मां दीपयते समुत्थितस्तनूजशोकप्रभवो हुताशनः।महीमिमां रश्मिभिरुद्धतप्रभो यथा निदाघे भगवान्दिवाकरः॥