अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः।स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा॥
कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः।तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः॥
कूपकाराः सुधाकारा वंशकर्मकृतस्तथा।समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे।।
स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान्।अशोभत महावेगः समुद्र इव पर्वणि॥
ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः।करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे॥
लता वल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च।जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान्॥
अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन्।केचित्कुठारैष्टङकैश्च दात्रैश्छिन्दन्क्वचित्क्वचित्॥
अपरे वीरणस्तम्बान्बलिनो बलवत्तराः।विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः॥
अपरेऽपूरयन्कूपान्पांसुभिः श्वभ्रमायतम्।निम्नभागांस्ततः केचित्समांश्चक्रुः समन्ततः॥
बबन्धुर्बन्धनीयांश्च क्षोद्यान्संचुक्षुदुस्तदा।बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा॥
अचिरेणैव कालेन परिवाहान्बहूदकान्।चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून्॥
निर्जलेषु च देशेषु खानयामासुरुत्तमान्।उदपानान्बहुविधान्वेदिकापरिमण्डितान्॥
ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः।मत्तोद्घुष्टद्विजगणः पताकाभिरलंकृतः॥
चन्दनोदकसंसिक्तो नानाकुसुमभूषितः।बह्वशोभत सेनायाः पन्थाः सुरपथोपमः॥
आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः।रमणीयेषु देशेषु बहुस्वादुफलेषु च॥
यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः।भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम्॥
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः।निवेशान्स्थापयामासुर्भरतस्य महात्मनः॥
बहुपांसुचयाश्चापि परिखापरिवारिताः।तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः॥
प्रासादमालावितताः सौधप्राकारसंवृताः।पताकाशोभिताः सर्वे सुनिर्मितमहापथाः॥
विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः।समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः॥
क्वचिद्वर्षनिवेशार्थं मठा वेदिविभूषिताः।क्वचिदापणपण्यानि पथि कृत्वार्थराशयः।दर्शयांचक्रुरत्यर्थं जनाः केचित्पुरे यथा॥
जाह्नवीं तु समासाद्य विविधद्रुमकाननाम्।शीतलामलपानीयां महामीनसमाकुलाम्॥
सचन्द्रतारागणमण्डितं यथा नभः क्षपायाममलं विराजते।नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः॥