गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्।ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्॥
सुकुमारो महासत्त्व: सिंहस्कन्धो महाभुजः।पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः॥
प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः।पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः॥
भरतं मूर्च्छितं दृष्ट्वा विवर्णवदनो गुहः।बभूव व्यथितस्तत्र भूमिकंपे यथा द्रुमः॥
तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः।परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः॥
ततः सर्वाः समापेतुर्मातरो भरतस्य ताः।उपवासकृशा दीना भर्तुर्व्यसनकर्शिताः॥
ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्।कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे।।
वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी।परिपप्रच्छ भरतं रूदन्ती शोकलालसा॥
पुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते।अद्य राजकुलस्यास्य त्वदधीनं च जीवितम्॥
त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते।वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः॥
कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम्।पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते॥
स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः।कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत्॥
भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः।अस्वपच्छयने कस्मिन्किं भुक्त्वा गुह शंस मे॥
सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः।यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ॥
अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च।रामायाभ्यवहारार्थं बहु चोपहृतं मया॥
तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः।न तु तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन्॥
न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा।इति तेन वयं राजन्ननुनीता महात्मना।।
लक्ष्मणेन समानीतं पीत्वा वारि महायशाः।औपवास्यं तदाकार्षीद्राघवः सह सीतया॥
ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा।वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः॥
सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम्।स्वयमानीय बर्हींषि क्षिप्रं राघवकारणात्॥
तस्मिन्समाविशद्रामः स्वास्तरे सह सीतया।प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः॥
एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम्।यस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ॥
नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ्शरैः सुपूर्णाविषुधी परंतपः।महद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम्॥
ततस्त्वहं चोत्तमबाणचापधृत्स्थितोऽभवं तत्र स यत्र लक्ष्मणः।अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा॥