रामस्तु सहसौमित्रिसुतीक्ष्णेनाभिपूजितः। परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत॥
उत्थाय तु यथाकालं राघवः सह सीतया। उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना॥
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ। काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने॥
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः॥ सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्॥
सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः। आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः॥
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्। ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्॥
अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः। धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः॥
अविषह्यातपो यावत्सूर्यो नाति विराजते। अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः॥
तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः। ववन्दे सहसौमित्रिस्सीतया सह राघवः॥
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः। गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत्॥
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते।यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः॥
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्। एषां तपस्विनां वीर तपसा भावितात्मनाम्॥
सप्राज्यफलमूलानि पुष्पितानि वनानि च। प्रशस्तमृगयूथानि शान्तपक्षिगणानि च॥
फुल्लपङ्कजषण्डानि प्रसन्नसलिलानि च। कारण्डवविकीर्णानि तटाकानि सरांसि च।।
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च। रमणीयान्यरण्यानि मयुराभिरुतानि च॥
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु। आगन्तव्यं त्वया तात पुनरेवाश्रमं मम॥
एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः। प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे॥
ततः शुभतरे तूणी धनुषी चायतेक्षणा।ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः॥
आबध्य च शुभे तूणी चापौ चादाय सस्वने।निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ॥
श्रीमन्तौ रूपसम्पन्नौ दीप्यमानौ स्वतेजसा।प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ॥