तं तथा शोकसन्तप्तं विलपन्तमनाथवत्।मोहेन महताविष्टं परिद्यूनमचेतनम्॥
ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः।रामं सम्बोधयामास चरणौ चाभिपीडयन्॥
महता तपसा राम महता चापि कर्मणा।राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः॥
तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः।राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्॥
यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे।प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति॥
दुःखितो हि भवाँल्लोकांस्तेजसा यदि धक्ष्यते।आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्॥
आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः।संस्पृशन्त्यग्निवद्राजन्क्षणेन व्यपयन्ति च॥
लोकस्वभाव एवैष ययातिर्नहुषात्मजः।गतः शक्रेण सालोक्यमनयस्तं तमः स्पृशत्॥
महर्षीर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः।अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्॥
या चेयं जगतां माता देवी लोकनमस्कृता।अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव॥
यौ धर्मौ जगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम्।आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ॥
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ।न दैवस्य प्रमुञ्चन्ति सर्वभूतादिदेहिनः॥
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ।श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि॥
नष्टायामपि वैदेह्यां हृतायामपि चानघ।शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा॥
त्वद्विधा न हि शोचन्ति सततं सत्यदर्शिनः।सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः॥
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय।बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे॥
अदृष्टगुणदोषाणामधृतानां च कर्मणाम्।नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते॥
त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः।अनुशिष्याद्धि कोनु त्वामपि साक्षाद्बृहस्पतिः॥
बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया।शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम्॥
दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम्।इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे॥
किं ते सर्वविनाशेन कृतेन पुरुषर्षभ।तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि॥