मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम्।लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत्॥
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्।अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः॥
ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात्।जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।भागप्रतिग्रहार्थं वै समवेता यथाविधि॥
ताः समेत्य यथान्यायं तस्मिन्सदसि देवताः।अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं महत्॥
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः।सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः॥
त्वया तस्मै वरो दत्तः प्रीतेन भगवन्पुरा।मानयन्तश्च तं सर्वं तस्य क्षमामहे॥
उद्वेजति लोकांस्त्रीनुच्छ्रितान्द्वेष्टि दुर्मतिः।शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति॥
ऋषीन्यक्षान्सगन्धर्वानसुरान्ब्राह्मणांस्तथा।अतिक्रामति दुर्धर्षो वरदानेन मोहितः॥
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः।चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते॥
तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात्।वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि॥
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत्।हन्तायं विदितस्तस्य वधोपायो दुरात्मनः॥
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम्।अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया॥
नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा।तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते॥
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्।सर्वे महर्षयो देवा प्रहृष्टास्तेऽभवंस्तदा॥
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः।शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः॥
वैनतेयं समारुह्य भास्करस्तोयदं यथा।तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः॥
ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः।तमब्रुवन्सुराः सर्वे समभिष्टूय सन्नताः॥
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया॥
राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभोः।धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः॥
तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च।विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम्॥
तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्।अवध्यं दैवतैर्विष्णो समरे जहि रावणम्॥
स हि देवान्सगन्धर्वान्सिद्धांश्च ऋषिसत्तमान्।राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते॥
ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा।क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः॥
वधार्थं वयमायातास्तस्य वै मुनिभिः सह।सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः॥
त्वं गतिः परमा देव सर्वेषां नः परन्तप।वधाय देवशत्रूणां नृणां लोके मनः कुरु॥
एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः।पितामहपुरोगांस्तान्सर्वलोकनमस्कृतः।अब्रवीत्त्रिदशान्सर्वान्समेतान्धर्मसंहितान्॥
भयं त्यजत भद्रं वो हितार्थं युधि रावणम्।सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम्॥
हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम्।दशवर्षसहस्राणि दशवर्षशतानि च।वत्स्यामि मानुषे लोके पालयन्पृथिवीमिमाम्॥
एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान्।मानुषे चिन्तयामास जन्मभूमिमथात्मनः॥
ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम्।पितरं रोचयामास तदा दशरथं नृपम्॥
ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः।स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम्॥
तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्।विरावणं साधु तपस्विकण्टकं तपस्विनामुद्धर तं भयावहम्॥
तमेव हत्वा सबलं सबान्धवं विरावणं रावणमुग्रपौरुषम्।स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्र गुप्तं गतदोषकल्मषम्॥