रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्।जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्॥
तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा।उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत॥
ग्रामान्विकृष्टसीमान्तान्पुष्पितानि वनानि च।पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः।शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम्॥
राजानं धिग्दशरथं कामस्य वशमास्थितम्॥
हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी।तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्तते॥
या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्।वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम्॥
कथं नाम महाभागा सीता जनकनन्दिनी।सदा सुखेष्वभिरता दुःखान्यनुभविष्यति॥
अहो दशरथो राजा निस्नेहः स्वसुतं प्रियम्।प्रजानामनघं रामं परित्यक्तुमिहेच्छति॥
एता वाचो मनुष्याणां ग्रामसंवासुवासिनाम्।शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः॥
ततो वेदश्रुतिं नाम शिववारिवहां नदीम्।उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्॥
गत्वा तु सुचिरं कालं ततः शिवजलां नदीम्।गोमतीं गोयुतानूपामतरत्सागरङ्गमाम्॥
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः।मयूरहंसाभिरुतां ततार स्यन्दिका नदीम्॥
स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा।स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्॥
सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः।हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः॥
कदाहं पुनरागम्य सरय्वाः पुष्पिते वने।मृगयां पर्यटिष्यामि मात्रा पित्रा च सङ्गतः॥
राजर्षीणां हि लोकेऽस्मिन्नत्यर्थं मृगया वने।काले वृतां तां मनुजैर्धन्विनामभिकाङ्क्षिताम्॥
नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने।रतिर्ह्योषातुला लोके राजर्षिगणसम्मता॥
स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा।तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन्॥