एवं तु क्रुद्धया राजा राममात्रा सशोकया।श्रावितः परुष वाक्यं चिन्तयामास दुःखितः॥
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः।अथ दीर्घेण कालेन संज्ञामाप परंतपः॥
स संज्ञामुपलभ्यैव दीर्घमुष्णं च निश्वसन्।कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत्॥
तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम्।यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना॥
अमनास्तेन शोकेन रामशोकेन च प्रभुः।द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत॥
दह्यमानः स शोकाभ्यां कौसल्यामाह भूपतिः।वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः॥
प्रसाद्ये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः।वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि॥
भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा।धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्॥
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा।नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम्॥
तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्।कौसल्या व्यसृजद्वाष्पं प्रणालीव नवोदकम्॥
सो मूर्ध्नि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम्।संभ्रमादब्रवीत्त्रस्ता त्वरमाणाक्षरं वचः॥
प्रसीद शिरसा याचे भूमौ निपतितास्मि ते।याचितास्मि हता देव हन्तव्याहं न हि त्वया॥
नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता।उभयोर्लोकयोर्वीर पत्या या संप्रसाद्यते॥
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम्।पुत्रशोकार्तया तत्तु मया किमपि भाषितम्॥
शोको नाशयते धैर्यं शोको नाशयते श्रुतम्।शोको नाशयते सर्वं नास्ति शोकसमो रिपुः॥
शक्य आपतितः सोढुं प्रहारो रिपुहस्ततः।सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते॥
धर्मज्ञाः श्रुतिमन्तोऽपि छिन्नधर्मार्थसंशयाः।यतयो वीर मुह्यन्ति शोकसंमूढचेतसः॥
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते।यः शोकहतहर्षायाः पञ्चवर्षोपमो मम॥
तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते।नदीनामिव वेगेन समुद्रसलिलं महत्॥
एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः।मन्दरश्मिरभूत्सूर्यो रजनी चाभ्यवर्तत॥
तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृपः।शोकेन च समाक्रान्तो निद्राया वशमेयिवान्॥