शरभङ्गे दिवं याते मुनिसङ्घाः समागताः। अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम्॥
वैखानसा वालखियाः सम्प्रक्षाला मरीचिपाः। अश्मकुट्टाश्च बहवः पत्राहाराश्च धार्मिकाः॥
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे। गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः॥
मुनयः सलिलाहारा वायुभक्षास्तथा परे। आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः॥
व्रतोपवासिनो दान्तास्तथार्द्रपटवाससः। सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः॥
सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगाः समाहिताः। शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः॥
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्। ऊचुः परमधर्मज्ञमृषिसङ्घाः समाहिताः॥
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ। प्रधानश्वासि नाथश्च देवानां मघवानिव॥
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च। पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः॥
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्। अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि॥
अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः। यो हरेद्बलिषड्भागं न च रक्षति पुत्रवत्॥
युञ्जानः स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव। नित्ययुक्तः सदा रक्षन्सर्वान्विषयवासिनः॥
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्। ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते॥
यत्करोति परं धर्मं मुनिर्मूलफलाशनः। तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः॥
सोयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्। त्वन्नाथोऽनाथवद्राम राक्षसैर्बाध्यते भृशम्॥
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्। हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने॥
पम्पानदीनिवासानामनुमन्दाकिनीमपि।। चित्रकूटालयानां च क्रियते कदनं महत्॥
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम्। क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः॥
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः। परिपालय नो राम वध्यमानान्निशाचरैः॥
परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते। परिपालय नः सर्वान्राक्षसेभ्यो नृपात्मज॥
एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम्। इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः॥
नैवमर्हथ मां वक्तुमाज्ञप्तोऽहं तपस्विनाम्। केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम्। विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम्॥
पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम्। भवतामर्थसिद्द्यर्थमागतोऽहं यदृच्छया॥
तस्य मेऽयं वने वासो भविष्यति महाफलः॥
तपस्विनां रणे शत्रून्हन्तुमिच्छामि राक्षसान्। पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः॥
दत्त्वाभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन। तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः॥