एवमस्मि तदा मुक्तः कथंचित्तेन संयुगे।इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम्॥
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः।सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम्॥
दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः।व्यचरं दण्डकारण्यं मांसभक्षो महामृगः॥
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण।अत्यन्तघोरो व्यचरं तापसान्सम्प्रधर्षयन्॥
निहत्य दण्डकारण्ये तापसान्धर्मचारिणः।रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन्॥
ऋषिमांसाशनः क्रूरस्त्रासयन्वनगोचरान्।तथा रुधिरमत्तोऽहं विचरन्धर्मदूषकः॥
आसादयं तदा रामं तापसं धर्मचारिणम्।वैदेहीं च महाभागां लक्ष्मणं च महारथम्॥
तापसं नियताहारं सर्वभूतहिते रतम्।सोऽहं वनगतं रामं परिभूय महाबलम्॥
तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्।अभ्यधावं हि सङ्क्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः॥
जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्।तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः।विकृष्य बलवच्चापं सुपर्णानिलतुल्यगाः॥
तैर्बाणैर्दण्डकारण्ये मुक्तैराशीविषोपमैः।कृतं वितिमिरं सर्वं रामेणाक्लिष्टकर्मणा॥
ते बाणा वज्रसंकाशाः सुमुक्ता रक्तभोजनाः।आजग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः॥
पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा।समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ॥
शरेण मुक्तो रामस्य कथंचित्प्राप्य जीवितम्।इह प्रव्राजितो युक्तस्तापसोह समाहितः॥
वृक्षेवृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम्।गृहीतधनुषं रामं पाशहस्तमिवान्तकम्॥
अपि रामसहस्राणि भीतः पश्यामि रावण।रामभूतमिदं सर्वमरण्यं प्रतिभाति मे॥
राममेव हि पश्यामि रहिते राक्षसाधिप।दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः॥
रकारादीनि नामानि रामत्रस्तस्य रावण।रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे॥
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्।बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः॥
रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस।न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि॥
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः।परेषामपराधेन विनष्टाः सपरिच्छदाः॥
सोऽहं तवापराधेन विनश्येयं निशाचर।कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह॥
रामश्च हि महातेजा महासत्त्वो महाबलः।अपि राक्षसलोकस्य न भवेदन्तकोऽपि सः॥
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः।अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा॥
अत्र ब्रूहि यथा तत्त्वं को रामस्य व्यतिक्रमः॥
इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे।सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः॥