अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः।विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे॥
इह राम महाबाहो विष्णुर्देववरः प्रभुः।वर्षाणि सुबहून्येव तथा युगशतानि च।तपश्चरणयोगार्थमुवास सुमहातपाः॥
एष पूर्वाश्रमो राम वामनस्य महात्मनः।सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः॥
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः।निर्जित्य दैवतगणान्सेन्द्रांश्च समरुद्गणान्।कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः॥
यज्ञं चकार मतिमानसुरेन्द्रो महाबलिः।बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः।समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे॥
बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम्।असमाप्ते क्रतौ तस्मिन्स्वकार्यमभिपद्यताम्॥
ये चैनमभिवर्तन्ते याचितार इतस्ततः।यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति॥
स त्वं सुरहितार्थाय मायायोगमुपागतः।वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम्॥
एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभः।अदित्या सहितो राम दीप्यमान इवौजसा॥
देवीसहायो भगवान्दिव्यं वर्षसहस्रकम्।व्रतं समाप्य वरदं तुष्टाव मधुसूदनम्॥
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम्।तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम्॥
शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो।त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः॥
तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम्।वरं वरय भद्रं ते वरार्होऽसि मतो मम।किमिच्छसि वरं श्रेष्ठं वरदोऽस्मि महाद्युते॥
तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत्॥
अदित्या देवतानां च मम चैवानुयाचतः।वरं वरद सुप्रीतो दातुमर्हसि सुव्रत॥
पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ।भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन।शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि॥
अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति।सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः॥
अथ विष्णुर्महातेजा अदित्यां समजायत।छत्री भिक्षुकरूपेण कमण्डलुशिखोज्ज्वलः।वामनं रूपमास्थाय वैरोचनिमुपागमत्॥
तं दृष्ट्वासुरराजेन्द्रो वामनत्वाच्च विस्मितः।माधवोऽयमिति ज्ञात्वा पूजयामास धर्मतः।पूजितस्तेन धर्मात्मा सर्वलोकहिताय वै॥
आसाद्य यजमानं तमुवाच भगवान्हरिः।स्वस्ति तेऽस्तु महाराज यज्ञश्चातीव शोभनः॥
वयं दानार्थिनो राजञ्श्रुत्वा यज्ञमनुत्तमम्।त्वां दृष्ट्वा तव योगेषु किञ्चिल्लब्धुमिहागताः॥
वामनेनैवमुक्तस्तु मुदा राजा तदाब्रवीत्।अद्य मे सफलो यज्ञः कृतार्थोऽस्म्यद्य वामन॥
त्वदर्थं कल्पितं चैव मम सर्वस्वमेव च।धनौघं रत्नराशिं वा भूषणं धान्यसञ्चयम्॥
ग्रामं वा नगरं वापि राष्ट्रं वा यानमेव वा।हस्त्यश्वरथपत्तीर्वा त्वं लभस्वान्यमेव वा।किमिच्छसि महाबाहो तद्ददामि तवानघ॥
एवमुक्तस्तदा राजा भगवान्पुरुषोत्तमः।उवाचेषत्स्मितं कृत्वा यजमानं महाबलिम्॥
एतैः किं मम राजेन्द्र तैस्तु नास्ति प्रयोजनम्।अस्मत्पादत्रयाक्रान्तां देहि भूमिं विभो तदा॥
श्रुत्वा तद्वामनेनोक्तं स्मितं कृत्वासुरोत्तमः।येनेष्टं पूर्त्यते ब्रह्मंस्तत्कुर्मेति ततोऽब्रवीत्॥
वामनाय महीं दातुं निश्चितेऽसुरसत्तमे।तं निवार्य महाराजं प्राह शुक्रो द्विजोत्तमः॥
विरिञ्चभवशक्राद्या योगिनश्च सुरासुराः।यं न जानन्ति वेदाश्च स एषो विष्णुरव्ययः॥
दानारक्ते ततः शुक्रे शुक्रं राजपुरोहितम्।गृहीत्वा ताडयामास वैनतेयो महाबलः॥
पत्न्या सह विनिश्चित्य यजमानो महाबलिः।मायारूपेण देवेशो मम यज्ञं गतो यदि।तदैतद्यज्ञसाफल्यमेवमस्त्विति चाब्रवीत्॥
इति मत्वोदकं दत्तं वामनाय महात्मने।तव पादत्रयाक्रान्तां गृहाणाद्य महीं प्रभो॥
उदके स्पृष्टमात्रे तु विश्वरूपधरो हरिः।तत्रस्थ एव ववृधे येन पूर्णं जगत्त्रयम्।सायुधैर्बाहुभिः पूर्णा दिग्विदिक्सर्वमेव हि॥
त्रीन्क्रमानथ भिक्षित्वा प्रतिगृह्य च मानदः।आक्रम्य लोकान्लोकात्मा सर्वलोकहिते रतः॥
महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा।त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः॥
तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः।मया तु भक्त्या तस्यैष वामनस्योपभुज्यते॥
एतमाश्रममायान्ति राक्षसा विघ्नकारिणः।अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः॥
अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम्।तदाश्रमपदं तात तवाप्येतद्यथा मम॥
इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम्।प्रविशन्नाश्रमपदं व्यरोचत महामुनिः।शशीव गतनीहारः पुनर्वसुसमन्वितः॥
तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः।उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन्॥
यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते।तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्॥
मुहूर्तमिव विश्रान्तौ राजपुत्रावरिन्दमौ।प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ॥
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव।सिद्धाश्रमो सिद्धः स्यात्सत्यममस्तु वचस्तव॥
एवम् उक्तो महातेजा विश्वामित्रो महामुनिः।प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः॥
कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ।प्रभातकाले चोत्थाय पूर्वां सन्ध्यामुपास्य च॥
स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च।हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम्॥