राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम्।धनुषो भेदनं चैव निखिलेन मया श्रुतम्॥
तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया।तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्य परं शुभम्॥
तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः।पूरयस्व शरेणैव स्वबलं दर्शयस्व च॥
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे।द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यस्य राघव॥
भीतो यदि धनुस्त्यक्त्वा निर्जितोऽस्मीति वा वद।तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा।विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत्॥
क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणश्च महायशाः।बालानां मम पुत्राणामभयं दातुमर्हसि॥
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्।सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि॥
स त्वं धर्मपरो भूत्वा कश्यपाय वसुन्धराम्।दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः॥
मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने।न चैकस्मिन्हते रामे सर्वे जीवामहे वयम्॥
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्।अनादृयैव तद्वाक्यं राममेवाभ्यभाषत।रोषात्प्रस्फुरमाणोष्ठो रामं परमधन्विनम्॥
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते।दृढे बलवती मुख्ये सुकृते विश्वकर्मणा॥
करवीरसमे गन्धे विशाले विमले शुभे।अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे॥
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया।इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः॥
तदिदं वैष्णवं राम धनुः परमभास्वरम्।समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्॥
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्।शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया॥
अभिप्रायं तु विज्ञाय देवतानां पितामहः।विरोधं जनयामास तयोः सत्यवतां वरः॥
विरोधे च महद्युद्धम् अभवद्रोमहर्षणम्।शितिकण्ठस्य विष्णोश्च परस्परजिगीषिणोः॥
तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम्।हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः॥
देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः।याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ॥
जृम्भितं तद्धनुर् दृष्ट्वा शैवं विष्णुपराक्रमैः।अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा॥
पूजयित्वा ततो विष्णुमामन्त्र्य च पिनाकिनम्।ब्रह्मेन्द्रादीन्पुरस्कृत्य नाकपृष्टं ययुस्तदा॥
धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः।देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्॥
तद्धनुर्देवरातोऽपि शिरसा गृह्य पूजयत्।भग्नं तन्मनुजश्रेष्ठ त्वया पैनाकमुत्तमम्॥
इदं च वैष्णवं राम धनुः परपुरञ्जयम्।ऋचीके भार्गवे प्रादाद्विष्णुः सन्न्यासमुत्तमम्॥
ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः।पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः॥
न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते।अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः॥
वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्।अमर्षो मे महानासीत्सर्वलोकभयप्रदः।शास्त्रतोऽग्निर्हुतो विप्रैर्यथा हुतमुखे प्रभुः॥
अशक्नुवन्स तं क्रोधं धनुर्गृह्य परं शुभम्।क्षत्रमुत्सादयन्रोषाज् जातं जातमनेकशः॥
पृथिवीं चाखिलां प्राप्य कश्यपाय महात्मने।यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे॥
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः।स्थितोऽस्मि तस्मिंस्तप्यन्वै सुसुखं सुरसेविते॥
अद्य तूत्तमवीर्येण त्वया राम महाबल।श्रुतवान्धनुषो भेदं ततोऽहं द्रुतमागतः॥
तदिदं वैष्णवं राम पितृपैतामहं महत्।क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्॥
योजयस्व धनुःश्रेष्ठे शरं परपुरञ्जयम्।यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः॥