तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह।मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदं वचः॥
यदसौ मातुलकुले पुरे राजगृहे सुखी।भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः॥
तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः।आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्॥
गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन्।तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत्॥
एहि सिद्धार्थ विजय जयन्ताशोक नन्दन।श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः॥
पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः।त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम॥
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः।त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया॥
मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम्।भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम्॥
कौशेयानि च वस्त्राणि भूषणानि वराणि च।क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत॥
दत्तपथ्यशना दूता जग्मुः स्वं स्वं निवेशनम्।केकयांस्ते गमिष्यन्तो हयानारुह्य संमतान्॥
ततः प्रास्थानिकं कृत्वा कार्यशेषमनन्तरम्।वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः॥
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरं प्रति।निषेवमाणास्ते जग्मुर्नदीं मध्येन मालिनीम्॥
ते हस्तिनपुरे गङ्गां तीर्त्वा प्रत्युङ्मुखा ययुः।पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम्॥
सरांसि च सुपूर्णानि नदीश्च विमलोदकाः।निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम्॥
ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम्।उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम्॥
निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम्।अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन्पुरीम्॥
अभिकालं ततः प्राप्य ते बोधिभवनाच्च्युताम्।पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम्॥
अवेक्ष्याञ्जलिपानांश्च ब्राह्मणान्वेदपारगान्।ययुर्मध्येन बाह्लीकान्सुदामानं च पर्वतम्॥
विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम्।नदीर्वापीस्तटाकानि पल्वलानि सरांसि च॥
पश्यन्तो विविधांश्चापि सिंहव्याघ्रमृगद्विपान्।ययुः पथातिमहता शासनं भर्तुरीप्सवः॥
ते श्रान्तवाहना दूता विकृष्टेन पथा ततः।गिरिव्रजं पुरवरं शीघ्रमासेदुरञ्जसा॥