तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्॥
तिष्ठतः किंनु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ।आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ॥
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा।उवाचार्तिं समापन्नो विक्रमे कृतलक्षणः॥
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः।तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू॥
भीषणोऽयं महाकायो राक्षसो भुजविक्रमः।लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति॥
निश्चेष्टानां वधो राजन्कुत्सितो जगतीपतेः।क्रतुमध्योपनीतानां पशूनामिव राघव॥
एतत्सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः।विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत्॥
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ।अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः॥
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः।चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः॥
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः।खं च गां च दिशश्चैव नादयञ्जलदो यथा॥
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः।दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः॥
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः।शशंस राघवं तस्य कबन्धस्य महात्मनः॥
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः।अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्॥
मात्रा प्रतिहृते राज्ये रामः प्रव्राजितो वनम्।मया सह चरत्येष भार्यया च महद्वनम्॥
अस्य देवप्रभावस्य वसतो विजने वने।राक्षसापहृता पत्नी यामिच्छन्ताविहागतौ॥
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने।आस्येनोरसि दीप्तेन भग्नजङ्घो विवेष्टसे॥
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः।उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन्॥
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम्।दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ॥
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा।तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव॥