तस्यां पुर्यां अयोध्यायां वेदवित्सर्वसङ्ग्रहः।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः॥
इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः॥
बलवान्निहितामित्रो मित्रवान्विजितेन्द्रियः।
धनैश्च सङ्ग्रहैश्चान्यैः शक्रवैश्रवणोपमः॥
यथा मनुर्महातेजा लोकस्य परिरक्षिता
तथा दशरथो राजा वसञ्जगदपालयत्