अथ तं व्यथया दीनं सविशेषममर्षितम्।श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम्॥
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्।उवाचेदं स धैर्येण धारयन्सत्त्वमात्मवान्॥
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम्।अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम्॥
उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे।सर्वं विसर्जय क्षिप्रं कुरु कार्यं निरत्ययम्॥
सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः।अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः॥
यस्या मदभिषेकार्थे मानसं परितप्यते।माता मे सा यथा न स्यात्सविशङ्का तथा कुरु॥
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे।मनसि प्रतिसञ्जातं सौमित्रेऽहमुपेक्षितुम्॥
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन।मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम्॥
सत्यः सत्याभिसन्धश्च नित्यं सत्यपराक्रमः।परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम॥
तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते।सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्॥
अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण।अन्वगेवाहमिच्छामि वनं गन्तुमितः पुरः॥
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा।सुतं भरतमव्यग्रमभिषेचयिता ततः॥
मयि चीराजिनधरे जटामण्डलधारिणि।गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम्॥
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्।तं तु नार्हामि सङ्क्लेष्टुं प्रव्रजिष्यामि मा चिरम्॥
कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने।राज्यस्य च वितीर्णस्य पुनरेव निवर्तने॥
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने।यदि भावो न दैवोऽयं कृतान्तविहितो भवेत्॥
जानासि हि यथा सौम्य न मातृषु ममान्तरम्।भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा॥
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः।उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये॥
कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा।ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ॥
यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते।व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः॥
कश्च दैवेन सौमित्रे योद्धुमुत्सहते पुमान्।यस्य न ग्रहणं किञ्चित्कर्मणोऽन्यत्र दृश्यते॥
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ।यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत्॥
ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः।उत्सृज्य नियमांस्तीव्रान्भ्रश्यन्ते काममन्युभिः॥
असङ्कल्पितमेवेह यदकस्मात्प्रवर्तते।निवर्त्यारम्भमारब्धं ननु दैवस्य कर्म तत्॥
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना।व्याहतेऽप्यभिषेके मे परितापो न विद्यते॥
तस्मादपरितापः संस्त्वमप्यनुविधाय माम्।प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्॥
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः।मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति॥
अथवा किं ममैतेन राजद्रव्यमतेन तु।उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति॥