स राजपुत्रः प्रियया विहीनः कामेन शोकेन च पीड्यमानः।विषादयन्भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम्॥
स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः।उवाच वाक्यं व्यसनानुरूपमुष्णं विनिःश्वस्य रुदन्सशोकम्॥
न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम्।शोकेन शोको हि परम्पराया मामेति भिन्दन्हृदयं मनश्च॥
पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि।तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि॥
pūrvaṁ mayā nūnam abhīpsitānipāpāni karmāṇy asakṛt kṛtānitatrāyam adyāpatito vipākoduḥkhena duḥkhaṁ yad ahaṁ viśāmi
राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः।सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि॥
सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम्।सीतावियोगात्पुनरप्युदीर्णं काष्ठैरिवाग्निः सहसा प्रदीप्तः॥
सा नूनमार्या मम राक्षसेन बलाद्धृता खं समुपेत्य भीरुः।अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम्॥
तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य।वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिभातः॥
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम्।रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः॥
तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः।रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि॥
मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा।नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा॥
अस्मिन्मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा।कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम्॥
गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम्।अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित्॥
पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता।तदप्ययुक्तं न हि सा कदाचिन्मया विना गच्छति पङ्कजानि॥
कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम्।वनं प्रयाता नु तदप्ययुक्तमेकाकिनी सातिबिभेति भीरुः॥
आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन्।मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकवशस्य नित्यम्॥
लोकेषु सर्वेषु च नास्ति किञ्चिद्यत्ते न नित्यं विदितं भवेत्तत्।शंसस्व वायो कुलशालिनीं तां हृता मृता वा पथि वर्तते वा॥
इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपन्तमेवम्।उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कालयुतं च वाक्यम्॥
शोकं विमुञ्चार्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः।उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु॥
इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः।न चिन्तयामास धृतिं विमुक्तवान्पुनश्च दुःखं महदभ्युपागतम्॥