इति ब्रुवति रामे तु लक्ष्मणोऽधःशिरा मुहुः।श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः॥
तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः।निशश्वास महासर्पो बिलस्थ इव रोषितः॥
तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा।बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्॥
अग्रहस्तं विधुन्वंस्तु हस्तिहस्तमिवात्मनः।तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्।अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्॥
अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्।धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया॥
कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति।यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ॥
किंनाम कृपणं दैवमशक्तमभिशंससि।पापयोस्ते कथं नाम तयोः शङ्का न विद्यते॥
सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्किं न बुध्यसे।तयोः सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः॥
यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव।तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः॥
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्।नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि॥
येनेयमागता द्वैधं तव बुद्धिर्महामते।स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि॥
कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः।करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्॥
यद्ययं किल्बिषाद्भेदः कृतोऽप्येवं न गृह्यते।जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः।तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः॥
मनसापि कथं कामं कुर्यास्त्वं कामवृत्तयोः।तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः॥
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्।तथाप्युपेक्षणीयं ते न मे तदपि रोचते॥
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।वीराः सम्भावितात्मानो न दैवं पर्युपासते॥
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च।दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति॥
अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः।य द्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्॥
अत्यङ्कशमिवोद्दामं गजं मदबलोद्धतम्।प्रधावितमहं दैवं पौरुषेण निवर्तये॥
लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्।न च कृत्स्नास्रयो लोका विहन्युः किं पुनः पिता॥
यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः।अरण्ये ते विवत्स्यन्ति चतुर्दशसमास्तथा॥
अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव।अभिषेकविघातेन पुत्रराज्याय वर्तते॥
मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा।प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम॥
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्।आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि॥
पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते।प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने॥
स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया।नैवमिच्छसि धर्मात्मन्राज्यं राम त्वमात्मनि॥
प्रतिजाने च ते वीर माभूवं वीरलोकभाक्।राज्यं च तव रक्षेयमहं वेलेव सागरम्॥
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव।अहमेको महीपालानलं वारयितुं बलात्॥
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे।नासिराबन्धनार्थाय न शराः स्तम्भहेतवः।अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम्॥
न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम।असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा।प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये॥
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे।हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही॥
खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः।पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः॥
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने।कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते॥
बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्।विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु॥
अद्य मेऽस्त्र प्रभावस्य प्रभावः प्रभविष्यति।राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो॥
अद्य चन्दनसारस्य केयूरामोक्षणस्य च।वसूनां च विमोक्षस्य सुहृदां पालनस्य च॥
अनुरूपाविमौ बाहू राम कर्म करिष्यतः।अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे॥
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवा सुहृत्प्राणयशःसुहृज्जनैः।यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किङ्करः॥