सशैलं सागरानूपं वीर्यवानवलोकयन्।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः॥
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः।
विशालैराश्रमपदैर्वेदिमद्भिः समावृतम्॥
कदल्याढकिसम्बाधं नालिकेरोपशोभितम्।
सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम्॥
नागैः सुपर्णैर्गन्धर्वैः किन्नरैश्च सहस्रशः।
अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः॥
अत्यन्तनियताहारैः शोभितं परमर्षिभिः।
जितकामैश्च सिद्धैश्च चारणैरुपशोभितम्॥
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्।
क्रीडारतिविधिज्ञाभिरप्सरोभिः सहस्रशः॥
सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम्।
देवदानवसङ्घैश्च चरितं त्वमृताशिभिः॥
हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम्।
वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा॥