एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी।प्रणयादेव सङ्क्रुद्धा भर्तारमिदमब्रवीत्॥
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्।त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज॥
वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप।अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम्॥
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा।स्वानि पुण्यानि भुञ्जनाः स्वं स्वं भाग्यमुपासते॥
भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ।अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि॥
न पिता नात्मजो नात्मा न माता न सखीजनः।इह प्रेत्य च नारीणां पतिरेको गतिः सदा॥
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव।अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्॥
ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम्।नय मां वीर विस्रब्धः पापं मयि न विद्यते॥
प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा।सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते॥
अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्।नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया॥
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्।नानामृगगणाकीर्णं शार्दूलवृकसेवितम्॥
सुखं वने निवत्स्यामि यथैव भवने पितुः।अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम्॥
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी।सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु॥
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्।अन्यस्यापि जनस्येह किं पुनर्मम मानद॥
सह त्वया गमिष्यामि वनमद्य न संशयः।नाहं शक्या महाभाग निवर्तयितुमुद्यता॥
फलमूलाशना नित्यं भविष्यामि न संशयः।न ते दुःखं करिष्यामि निवसन्ती सह त्वया॥
अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि।इच्छामि सरितः शैलान्पल्वलानि वनानि च॥द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता॥
हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः।इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता॥
अभिषेकं करिष्यामि तासु नित्यं यतव्रता।सह त्वया विशालाक्ष रंस्ये परमनन्दिनी॥
एवं वर्षसहस्राणां शतं वाहं त्वया सह।व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि न हि मे मतः॥
स्वर्गेऽपि च विना वासो भविता यदि राघव।त्वया मम नरव्याघ्र नाहं तमपि रोचये॥
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम्।वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता॥
अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम्।नयस्व मां साधु कुरुष्व याचनां न ते मयातो गुरुता भविष्यति॥
तथा ब्रुवाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति।उवाच चैनां बहु सन्निवर्तने वने निवासस्य च दुःखितां प्रति॥