वनं गते धर्मपरे रामे रमयतां वरे।कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्॥
यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः।सानुक्रोशो वदान्यश्च प्रियवादी च राघवः॥
कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया।दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः॥
सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता।कथमुष्णं च शीतं च मैथिली प्रसहिष्यते॥
भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्।वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते॥
गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता।कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्॥
महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः।भुजं परिघसंकाशमुपधाय महाबलः॥
पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम्।कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्॥
वज्रसारमयं नूनं हृदयं मे न संशयः।अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा।।
यत्तवयाकरुणं कर्म व्यपोह्य मम बान्धवाः।निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने॥
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति।जह्याद्राज्यं च कोशं च भरतेनोपभुज्यते॥
भोजयन्ति किल श्राद्धे केचित्स्वानेव बान्धवान्।ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान्॥
तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः।न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः।।
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्धोक्तुं द्विजर्षभाः।नाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः॥
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते।भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते॥
न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति।एवमेव नरव्याघ्रः परलीढं न मन्यते॥
हविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः।नैतानि यातयामानि कुर्वन्ति पुनरध्वरे॥
तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव।नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्॥
न चेमां धर्षणां रामः संगच्छेदत्यमर्षणः।दारयेन्मन्दरमपि स हि क्रुद्धः शितैः शरैः।त्वां तु नोत्सहते हन्तुं महात्मा पितृगौरवात्॥
ससोमार्कग्रहगणं नभस्ताराविचित्रितम्।पातयेद्यो दिवं क्रुद्धः स त्वां न व्यतिवर्तते।प्रक्षोभयेद्वारयेद्वा महीं शैलशताचिताम्॥
नैवंविधमसत्कारं राघवो मर्षयिष्यति।बलवानिव शार्दूलो वालधेरवमर्शनम्॥
नैतस्य सहिता लोका भयं कुर्युर्महामृधे।अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत्॥
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः।युगान्त इव भूतानि सागरानपि निर्दहेत्॥
स तादृशः सिंहबलो वृषभाक्षो नरर्षभः।स्वयमेव हतः पित्रा जलजेनात्मजो यथा॥
द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः।यदि ते धर्मनिरते त्वया पुत्रे विवासिते॥
गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः।तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते॥
तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः।न वनं गन्तुमिच्छामि सर्वथा निहता त्वया॥
हतं त्वया राज्यमिदं सराष्ट्रं हतस्तथात्मा सह मन्त्रिभिश्च।हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ॥
इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः।ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन्॥