दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ॥
ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे।मालादामभिराबद्धे सीतया समलङ्कते॥
ततः प्रासादहर्म्याणि विमानशिखराणि च।अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्॥
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः।आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम्॥
पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः।ऊचुर्बहुविधा वाचः शोकोपहतचेतसः॥
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः॥
ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः।नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात्॥
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।तामद्य सीतां पश्यन्ति राजमार्गगता जनाः॥
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।वर्षमुष्णं च शीतं च नेष्यन्त्याशु विवर्णताम्॥
अद्य नूनं दशरथः सत्वमाविश्य भाषते।न हि राजा प्रियं पुत्रं विवासयितुमिच्छति॥
निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम्।किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्॥
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः।राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्॥
तस्मात्तस्योपघातेन प्रजाः परमपीडिताः।औदकानीव सत्त्वानि ग्रीष्मे सलिलसङ्क्षयात्॥
पीडया पीडितं सर्वं जगदस्य जगत्पतेः।मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः॥
मुलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।पुष्पं फलं च पत्रं च शाखांश्चास्येतरे जनाः॥
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः।गच्छन्तमनुगच्छामो येन गच्छति राघवः॥
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।एकदुःखसुखा राममनुगच्छाम धार्मिकम्॥
समुद्धृत निधानानि परिध्वस्ताजिराणि च।उपात्तधनधान्यानि हृतसाराणि सर्वशः॥
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः।मूषकैः परिधावद्भिरुद्बिलैरावृतानि च॥
अपेतोदकधूमानि हीनसम्मार्जनानि च।प्रनष्टबलिकर्मेज्यामत्रहोमजपानि च॥
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्॥
वनं नगरमेवास्तु येने गच्छति राघवः।अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्॥
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः।त्यजन्त्यस्मद्भयाद्गीता गजाः सिंहा वनान्यपि॥
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च॥
तृणमांसफलादानां देशं व्यालमृगद्विजम्।प्रपद्यतां हि कैकेयी सपुत्रा सहबान्धवैः।राघवेण वने सर्वे सह वत्स्याम निर्वृताः॥
इत्येवं विविधा वाचो नानाजनसमीरिताः।शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम्॥
स तु वेश्म पितुर्दूरात्कैलासशिखरप्रभम्।अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः॥
विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।ददर्शावस्थितं दीनं सुमत्रमविदूरतः॥
प्रतीक्षमाणोऽपि जनं तदार्तमनार्तरूपः प्रहसन्निवाथ।जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः॥
तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन्वनमार्तरूपम्।व्यतिष्ठत प्रेक्ष्य तदा सुमत्रं पितुर्महात्मा प्रतिहारणार्थम्॥
पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः।स राघवः प्रेक्ष्य सुमत्रमब्रवीन्निवेदय स्वागमनं नृपाय मे॥