तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम्।निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन्॥
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना।एवमास्ते स धर्मात्मा सीतया सह राघवः॥
तथा तत्रासतस्तस्य भरतस्योपयायिनः।सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभःस्पृशौ॥
एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः।अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः॥
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः।तांश्च विप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत॥
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निःस्वनम्।उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम्॥
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया।भीमस्तनितम्भीरस्तुमुलः श्रूयते स्वनः॥
गजयूथानि वारण्ये महिषा वा महावने।वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः॥
राजा वा राजमात्रो वा मृगयामटते वने।अन्यद्वा श्वापदं किंचित्सौमित्रे ज्ञातुमर्हसि॥
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण।सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि॥
स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम्।प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमुदैक्षत॥
उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम्।रथाश्वगजसंबाधां यत्तैर्युक्तां पदातिभिः॥
tām aśva-gaja-sampūrṇāṁ ratha-dhvaja-vibhūṣitāmśaśaṁsa senāṁ rāmāya vacanaṁ cedam abravīt
अग्निं संशमयत्वार्यः सीता च भजतां गुहाम्।सज्यं कुरुष्व चापं च शरांश्च कवचं तथा॥
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह।अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम्॥
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्।दिधक्षन्निव तां सेनां रुषितः पावको यथा॥
संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम्।आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः॥
एष वै सुमहाञ्श्रीमान्विटपी संप्रकाशते।विराजत्युद्गतस्कन्धः कोविदारध्वजो रथे॥
असौ हि सुमहास्कन्धो विटपी च महाद्रुमः।विराजते महासैन्ये कोविदारध्वजो रथे॥
भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान्।एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः॥
गृहीतधनुषौ चावां गिरिं वीर श्रयावहै।अथ वेहैव तिष्ठावः सन्नद्धावुद्यतायुधौ॥
अपि नौ वशमागच्छेत्कोविदारध्वजो रणे॥
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत्।त्वया राघव संप्राप्तं सीतया च मया तथा॥
यन्निमित्तं भवान्राज्याच्च्युतो राघव शाश्वतात्।संप्राप्तोऽयमरिर्वीर भरतो वध्य एव मे॥
भरतस्य वधे दोषं नाहं पश्यामि राघव।पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते॥
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव।एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम्॥
अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका।मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम्॥
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम्।कलुषेणाद्य महता मेदिनी परिमुच्यताम्॥
अद्येमं संयतं क्रोधमसत्कारं च मानद।मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम्॥
अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः।भिन्दञ्शत्रुशरीराणि करिष्ये शोणितोक्षितम्॥
शरैर्निर्भिन्नहृदयान्कुञ्जरांस्तुरगांस्तथा।श्वापदाः परिकर्षन्तु नरांश्च निहतान्मया॥
शराणां धनुषश्चाहमनृणोऽस्मि महामृधे।ससैन्यं भरतं हत्वा भविष्यामि न संशयः॥