जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः।उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया॥
भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान्।अकार्यं कार्यसङ्काशमपथ्यं पथ्यसंमितम्॥
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः।मानं न लभते सत्सु भिन्नचारित्रदर्शनः॥
कुलीनमकुलीनं वा वीरं पुरुषमानिनम्।चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम्॥
अनार्यस्त्वार्यसंकाशः शौचाद्धीनस्तथा शुचिः।लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव॥
अधर्मं धर्मवेषेण यदीमं लोकसंकरम्।अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम्॥
कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः।बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम्॥
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्।अनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया॥
कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते।यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः॥
सत्यमेवानृशंसं च राजवृत्तं सनातनम्।तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः॥
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे।सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम्॥
उद्विजन्ते यथा सर्पान्नरादनृतवादिनः।धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते॥
सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा।सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्॥
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च।वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत्॥
एकः पालयते लोकमेकः पालयते कुलम्।मज्जत्येको हि निरय एकः स्वर्गे महीयते॥
सोऽहं पितुर्नियोगं तु किमर्थं नानुपालये।सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः॥
नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोऽन्वितः।सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः॥
असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः।नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम्॥
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम्।भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते॥
क्षात्र धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम्।क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः॥
कायेन कुरुते पापं मनसा संप्रधार्य च।अनृतं जिह्वया चाह त्रिविधं कर्म पातकम्॥
भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि।स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत्॥
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम्।आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह॥
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ।भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः॥
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ।प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा॥
वनवासं वसन्नेवं शुचिर्नियतभोजनः।मूलैः पुष्पैः फलैः पुण्यैः पितृदेवांश्च तर्पयन्॥
संतुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये।अकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः॥
कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्।अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः॥
शतं क्रतूनामाहृत्य देवराट् त्रिदिवं गतः।तपांस्युग्राणि चास्थाय दिवं याता महर्षयः॥
अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम्।अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य॥
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च।द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः॥
तेनैवमाज्ञाय यथावदर्थमेकोदयं संप्रतिपद्य विप्राः।धर्मं चरन्तः सकलं यथावत्काङ्क्षन्ति लोकागममप्रमत्ताः॥
निन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम्।बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम्॥
यथा हि चोरः स तथाहि बुद्धस्तथागतं नास्तिकमत्र विद्धि।तस्माद्धि यः शङ्क्यतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात्॥
त्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रुः।जित्वा सदेमं च परं च लोकं तस्माद्द्विजाः स्वस्ति हुतं कृतं च॥
धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः।अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः॥
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम्।उवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः।।
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किंचन।समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥
स चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता।निवर्तनार्थं तव राम कारणात्प्रसादनार्थं तु मयैतदीरितम्॥