स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः।अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः॥
बिडालोलूकचरितामालीननरवारणाम्।तिमिराभ्याहतां कालीमप्रकाशां निशामिव॥
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्।ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम्॥
अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम्।लीनमीनझषग्राहां कृशां गिरिनदीमिव॥
विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम्।हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम्॥
विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम्।हतप्रवीरामापन्नां चमूमिव महाहवे॥
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम्।प्रशान्तमारुतोद्भूतां जलोर्मिमिव निःस्वनाम्॥
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः।सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव॥
गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम्।गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम्॥
प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः।वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव॥
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम्।संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम्॥
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम्।द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव॥
संमूढनिगमां सर्वां संक्षिप्तविपणापणाम्।प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम्॥
क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम्।हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम्॥
वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम्।उपयुक्तोदकां भग्नां प्रपां निपतितामिव॥
विपुलां विततां चैव युक्तपाशां तरस्विनाम्।भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात्॥
शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम्।प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम्॥
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम्।संतप्तामिव शोकेन गात्रयष्टिमभूषणाम्॥
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम्।प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव॥
भरतस्तु रथस्थः सञ्श्रीमान्दशरथात्मजः।वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत्॥
किंनु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते।यथापुरमयोध्यायां गीतवादित्रनिःस्वनः॥
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः।धूपितागरुगन्धश्च न प्रवाति समन्ततः॥
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः।प्रमत्तगजनादश्च महांश्च रथनिःस्वनः।नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते॥
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः।गते हि रामे तरुणाः संतप्ता नोपभुञ्जते॥
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः।नोत्सवाः संप्रवर्तन्ते रामशोकार्दिते पुरे॥
सह नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता।न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा॥
कदा नु खलु मे भ्राता महोत्सव इवागतः।जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः॥
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः।संपतद्भिरयोध्यायां नाभिभान्ति महापथाः॥
एवं बहुविधं जल्पन्विवेश वसतिं पितुः।तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव॥
तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम्।निरीक्ष्य सर्वं तु विविक्तमात्मवान्मुमोच बाष्पं भरतः सुदुःखितः॥