इत्युक्त्वा लक्ष्मणः श्रीमान्राक्षसं प्रहसन्निव। को भवान्वनमभ्येत्य चरिष्यति यथासुखम्॥
अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम्। आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः॥
तमुवाच ततो रामो राक्षसं ज्वलिताननम्। पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः॥
क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ। त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्॥
तमुवाच विराधस्तु रामं सत्यपराक्रमम्। हन्त वक्ष्यामि ते राजन्निबोध मम राघव॥
पुत्रः किल जयस्याहं मम माता शतह्रदा। विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः॥
तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा। शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च॥
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्। त्वरमाणौ पलायेथां न वां जीवितमाददे॥
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः। राक्षसं विकृताकारं विराधं पापचेतसम्॥
क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्। रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि॥
ततः सज्यं धनुः कृत्वा राममः सुनिशिताञ्शरान्। सुशीघ्रमभिसन्धाय राक्षसं निजघान ह॥
धनुषा ज्यागुणवता सप्त बाणान्मुमोच ह। रुक्मपुङ्खान्महावेगान्सुपर्णानिलतुल्यगान्॥
ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः। निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः॥
स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः। अभ्यद्रवत्सुसङ्क्रुद्धस्तदा रामं सलक्ष्मणम्॥
स विनद्य महानादं शूलं शक्रध्वजोपमम्। प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः॥
अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः।। विराधे राक्षसे तस्मिन्कालान्तकयमोपमे॥
स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः। जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः॥
स्पर्शात्तु वरदानेन प्राणान्संरोध्य राक्षसः। विराधः शूलमुद्यम्य राघवावभ्यधावत॥
तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम्। द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः॥
तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि।। पपाताशनिना छिन्नं मेरोरिव शिलातलम्॥
तौ खङ्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ। तूर्णमापततस्तस्य तदा प्रहरतां बलात्॥
स वध्यमानः सुभृशं बाहुभ्यां परिरभ्य तौ। अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत॥
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत्। वहत्वयमलं तावत्पथानेन तु राक्षसः॥
यथा चेच्छति सौमित्रे तथा वहतु राक्षसः। अयमेव हि नः पन्था येन याति निशाचरः॥
स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः। बालाविव स्कन्धगतौ चकारातिबलौ ततः॥
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः। विराधो निनदन्घोरं जगामाभिमुखो वनम्॥
वनं महामेघनिभं प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम्।नानाविधैः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम्॥