ततः शूर्पणखा घोरा राघवाश्रममागता।रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया॥
ते रामं पर्णशालायामुपविष्टं महाबलम्।ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च॥
तान्दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम्।अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्॥
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः।इमानस्या वधिष्यामि पदवीमागतानिह॥
वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः।तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥
राघवोऽपि महच्चापं चामीकरविभूषितम्।चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्॥
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ।प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्॥
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ।वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ॥
युष्मान्पापात्मकान्हन्तुं विप्रकारान्महाहवे।ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः॥
तिष्ठतैवात्र संतुष्टा नोपावर्तितुमर्हथ।यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश। ऊचुर्वाचं सुसङ्क्रुद्धा ब्रह्मघ्नाः शूलपाणयः॥
संरक्तनयना घोरा रामं संरक्तलोचनम्। परुषं मधुराभाषं दृष्ट्वा दृष्टपराक्रमम्॥
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः।त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि॥
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि।अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे॥
एहि बाहुप्रयुक्तैर्नः परिधैः शूलपट्टिशैः।प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्॥
इत्येवमुक्त्वा सङ्क्रुद्धा राक्षसास्ते चतुर्दश।उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः। चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्॥
तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश।तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः॥
ततः पश्चान्महातेजा नाराचान्सूर्यसन्निभान्।जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्॥
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्।मुमोच राघवो बाणान्वज्रानिव शतक्रतुः॥
रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः।अन्तरिक्षे महोल्कानां बभूवुस्तुल्यदर्शनाः॥
ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः।विनिष्पेतुस्तदा भूमौ न्य॑मज्जन्ताशनिस्वनाः॥
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः।निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः॥
तान्दृष्ट्वा पतितान्भूमौ राक्षसी क्रोधमूर्च्छिता।परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान्॥
सा नदन्ती महानादं जवाच्छूर्पणखा पुनः।जगाम तत्र संभ्रान्ता खरो यत्र महाबलः॥
उपगम्य खरं सा तु किंचित्संशुष्कशोणिता।पपात पुनरेवार्ता सनिर्यासेव सल्लकी॥
भ्रातुः समीपे शोकार्ता ससर्ज निनदं मुहुः।भूमौ शयाना दुःखार्ता लब्धसंज्ञा चिरात्पुनः।सस्वरं मुमुचे बाष्पं विषण्णवदना तदा॥