स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः।उवाच व्यक्तया वाचा तामनर्थार्थमागताम्॥
मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः।त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः॥
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः।घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम॥
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः।हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ॥
अनाथवद्विलपसि नाथे तु मयि संस्थिते।उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह॥
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता।विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्॥
अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका।शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता॥
प्रेषिताश्च त्वया वीर राक्षसास्ते चतुर्दश।निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम्॥
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः।समरे निहताः सर्वे सायकैर्मर्मभेदिभिः॥
तान्दृष्ट्वा पतितान्भूमौ क्षणेनैव महाबलान्।रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम॥
अहमस्मि समुद्विग्ना विषण्णा च निशाचर।शरणं त्वां पुनः प्राप्ता सर्वतोभयदर्शिनी॥
विषादनक्राध्युषिते परित्रासोर्मिमालिनि।किं मां न त्रायसे मग्नां विपुले शोकसागरे॥
एते च निहता भूमौ रामेण निशितैः शरैः।येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः॥
मयि ते यद्यनुक्रोशो यदि रक्षस्सुतेषु च।रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर। दण्डकारण्यनिलयं जहि राक्षसकण्टकम्॥
यदि रामं ममामित्रं न त्वमद्य वधिष्यसि।तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा॥
बुध्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे।स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः॥
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः।मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ॥
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर।दण्डकारण्यनिलयं जहि तं कुलपांसन॥
निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह।अपयाहि जनस्थानात्त्वरितः सहबान्धवः।जहि त्वं समरे मूढान्यथा तु कुलपांसन॥
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि॥
स हि तेजःसमायुक्तो रामो दशरथात्मजः।भ्राता चास्य महावीर्यो येन चास्मि विरूपिता॥
एवं विलप्य बहुशो राक्षसी विततोदरी।भ्रातुः समीपे दुःखार्ता नष्टसंज्ञा बभूव ह।कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता॥