अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्।
पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्॥
तिलकैर्बीजपूरैश्च धवैः शुक्लद्रुमैस्तथा।
पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः॥
मालतीकुन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा।
अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः॥
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम्।
समीक्षमाणौ पुष्पाढ्यं सर्वतो विपुलद्रुमम्॥
कोयष्टिकैश्चार्जुनकैः शतपत्रैश्च कीरकैः।
एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत्॥
ततो जग्मतुरव्यग्रौ राघवौ सुसमाहितौ।
तद्वनं चैव सरसः पश्यन्तौ शकुनैर्युतम्॥