तमग्निमिव संशान्तमम्बुहीनमिवार्णवम्।हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम्॥
कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता।उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत॥
सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम्।त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि॥
विहाय मां गतो रामो भर्ता च स्वर्गतो मम।विपथे सार्थहीनेव नाहं जीवितुमुत्सहे॥
भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः।इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः॥
न लुब्धो बुध्यते दोषान्किंपाकमिव भक्षयन्।कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम्॥
अनियोगे नियुक्तेन राज्ञा रामं विवासितम्।सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा॥
स मामनाथां विधवां नाद्य जानाति धार्मिकः।रामः कमलपत्राक्षो जीवनाशमितो गतः॥
विदेहराजस्य सुता तथा सीता तपस्विनी।दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति॥
नदतां भीमघोषाणां निशासु मृगपक्षिणाम्।निशम्य नूनं संत्रस्ता राघवं संश्रयिष्यति॥
वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनुचिन्तयन्।सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम्॥
सोऽहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता।इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम्॥
तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम्।व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः॥
तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम्।राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम्॥
न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः।सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम्॥
तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम्।हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन्॥
बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः।रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन्॥
हा महाराज रामेण सततं प्रियवादिना।विहीनाः सत्यसंधेन किमर्थं विजहासि नः॥
कैकेय्या दुष्टभावाया राघवेण वियोजिताः।कथं पतिघ्न्या वत्स्यामः समीपे विधवा वयम्॥
स हि नाथः सदास्माकं तव च प्रभुरात्मवान्।वनं रामो गतः श्रीमान्विहाय नृपतिश्रियम्॥
त्वया तेन च वीरेण विना व्यसनमोहिताः।कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः॥
यया तु राजा रामश्च लक्ष्मणश्च महाबलः।सीतया सह संत्यक्ताः सा कमन्यं न हास्यति॥
ता बाष्पेण च संवीताः शोकेन विपुलेन च।व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः॥
निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता।पुरी नाराजतायोध्या हीना राज्ञा महात्मना॥
बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना।शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम्॥
गते तु शोकात्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च।निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता॥
ऋते तु पुत्राद्दहनं महीपतेर्न रोचयन्ते सुहृदः समागताः।इतीव तस्मिञ्शयने न्यवेशयन्विचिन्त्य राजानमचिन्त्यदर्शनम्॥
गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी।पुरी बभासे रहिता महात्मना न चास्रकण्ठाकुलमार्गचत्वरा॥
नराश्च नार्यश्च समेत्य सङ्घशो विगर्हमाणा भरतस्य मातरम्।तदा नगर्यां नरदेवसंक्षये बभूवुरार्ता न च शर्म लेभिरे॥