कैकेय्याप्येवमुक्तस्तु भरतो राघवानुजः।कर्णौ कराभ्यां प्रच्छाद्य पपात धरणीतले॥
श्रुत्वा तु पितरं वृत्तं भ्रातरौ च विवासितौ।भरतो दुःखसन्तप्त इदं वचनमब्रवीत्॥
किं नु कार्यं हतस्येह मम राज्येन शोचतः।विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च॥
दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः।राजानं प्रेतभावस्थं कृत्वा रामं च तापसम्॥
कुलस्य त्वमभावाय कालरात्रिरिवागता।अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान्॥
मृत्युमापादितो राजा त्वया मे पापदर्शिनि।सुखं परिहृतं मोहात्कुलेऽस्मिन्कुलपांसिनि॥
त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो महायशाः।तीव्रदुःखाभिन्तप्तो वृत्तो दशरथो नृपः॥
विनाशितो महाराजः पिता मे धर्मवत्सलः।कस्मात्प्रव्राजितो रामः कस्मादेव वनं गतः॥
कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते।दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम॥
ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम्।वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते॥
तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी।त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते॥
तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससम्।प्रस्थाप्य वनवासाय कथं पापे न शोचसि॥
अपापदर्शनं शूरं कृतात्मानं यशस्विनम्।प्रव्राज्य चीरवसनं किंनु पश्यसि कारणम्॥
लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति।तथा ह्यनर्थो राज्यार्थं त्वयानीतो महानयम्॥
अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ।केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे॥
तं हि नित्यं महाराजो बलवन्तं महाबलः।अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा॥
सोऽहं कथमिमं भारं महाधुर्यसमुद्धृतम्।दम्यो धुरमिवासाद्य वहेयं केन चौजसा॥
अथ वा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा।सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम्॥
न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम्।यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा॥
उत्पन्ना तु कथं बुद्धिस्तवेयं पापदर्शिनि।साधुचारित्रविभ्रष्टे पूर्वेषां नो विगर्हिता॥
अस्मिन्कुले हि पूर्वेषां ज्येष्ठो राज्येऽभिषिच्यते।अपरे भ्रातरस्तस्मिन्प्रवर्तन्ते समाहिताः॥
न हि मन्ये नृशंसे त्वं राजधर्ममवेक्षसे।गतिं वा न विजानासि राजवृत्तस्य शाश्र्वतीम्॥
सततं राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते।राज्ञामेतत्समं तत्स्यादिक्ष्वाकूणां विशेषतः॥
तेषां धर्मैकरक्षाणां कुलचारित्रशोभिनाम्।अत्र चारित्रशौण्डीर्यं त्वां प्राप्य विनिवर्तितम्॥
तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः।बुद्धेर्मोहः कथमयं सम्भूतस्त्वयि गर्हितः॥
न तु कामं करिष्यामि तवाहं पापनिश्चये।त्वया व्यसनमारब्धं जीवितान्तकरं मम॥
एष त्विदानीमेवाहमप्रियार्थं तवानघम्।निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम्॥
निवर्तयित्वा रामं च तस्याहं दीप्ततेजसः।दासभूतो भविष्यामि सुस्थितेनान्तरात्मना॥
इत्येवमुक्त्वा भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम्।।शोकातुरश्चापि ननाद भूयः सिंहो यथा पर्वतगह्वरस्थः॥