एवं स विलपंस्तस्मिन्वने दशरथात्मजः।
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम्॥
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्।
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे॥
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः।
रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः॥
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः।
शोभितां दीप्तवदनैस्सर्पैर्भोगवतीमिव॥
महारजतवासोभ्यामसिभ्यां च विराजिताम्।
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम्॥
गोधाङ्गुलित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः।
अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहामिव॥