एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ।गिरिप्रदरमासाद्य पावकं विससर्जतुः॥
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः।चितामादीपयामास सा प्रजज्वाल सर्वतः॥
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्।मेदसा पच्यमानस्य मन्दं दहति पावकः॥
स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः।अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः॥
ततश्चिताया वेगेन भास्वरो विमलाम्बरः।उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः॥
विमाने भास्वरे तिष्ठन्हंसयुक्ते यशस्करे।प्रभया च महातेजा दिशो दश विराजयन्॥
सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत्।शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि॥
राम षड्युक्तयो लोके याभिः सर्वं विमृश्यते॥
परिमृष्टो दशान्तेन दशाभागेन सेव्यते।दशाभागगतो हीनस्त्वं हि रामः सलक्ष्मणः।यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्॥
तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर।अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन्॥
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः।भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना॥
ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते।निवसत्यात्मवान्वीरश्चतुर्भिः सह वानरैः॥
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः।सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान्॥
दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः।भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः॥
स ते सहायो मित्रं च सीतायाः परिमार्गणे।भविष्यति हि ते राम मा च शोके मनः कृथाः॥
भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा।कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः॥
गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम्।वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव।अद्रोहाय समागम्य दीप्यमाने विभावसौ॥
स च ते नावमन्तव्यः सुग्रीवो वानराधिपः।कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्॥
शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्।कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति॥
स ऋक्षरजसः पुत्रः पम्पामाटति शङ्कितः।भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः॥
सन्निधायायुधं क्षिप्रमृश्यमूकालयं कपिम्।कुरु राघव सत्येन वयस्यं वनचारिणम्॥
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः।नरमांसाशिनां लोके नैपुण्यादधिगच्छति॥
न तस्याविदितं लोके किञ्चिदस्ति हि राघव।यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम॥
स नदीर्विपुलाञ्छैलान्गिरिदुर्गाणि कन्दरान्।अन्वीक्ष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति॥
वानरांश्च महाकायान्प्रेषयिष्यति राघव।दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्॥
अन्वेष्यति वरारोहां निर्मलां रावणालये॥
स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम्।प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति॥