तं मन्मथशरैर्विद्धं कामवेगवशानुगम्।उवाच पृथिवीपालं कैकेयी दारुणं वचः॥
नास्मि विप्रकृता देव केनचिन्नावमानिता।अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम्॥
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि।अथ तद्व्यावहरिष्यामि यदभिप्रार्थितं मया॥
तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः।कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम्॥
अवलिप्ते न जानासि त्वत्तः प्रियतमा मम।मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते॥
तेनाजय्येन मुख्येन राघवेण महात्मना।शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि॥
यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् तेन रामेण कैकेयि शपे ते वचनक्रियाम्
आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम्।तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे।एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे॥
बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि।करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे॥
सा तदर्थमना देवी तमभिप्रायमागतम्।निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुस्सहं वचः॥
तेन वाक्येन संहृष्टा तमभिप्रायमागतम्।व्याजहार महाघोरमभ्यागतमिवान्तकम्॥
यथाक्रमेण शपसि वरं मम ददासि च।तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः साग्निपुरोगमाः॥
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः।जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा॥
निशाचराणि भूतानि गृहेषु गृहदेवताः।यानि चान्यानि भूतानि जानीयुर्भाषितं तव॥
सत्यसन्धो महातेजा धर्मज्ञः सुसमाहितः।वरं मम ददात्येष सर्वे शृण्वन्तु देवताः॥
इति देवी महेष्वासं परिगृह्याभिशस्य च।ततः परमुवाचेदं वरदं काममोहितम्॥
स्मर राजन्पुरावृत्तं तस्मिन्दैवासुरे रणे।तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा॥
तत्र चापि मया देव यत्त्वं समभिरक्षितः।जाग्रत्या यतमानायास्ततो मे प्राददा वरौ॥
तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम्।तवैव पृथिवीपाल सकाशे सत्यसङ्गर॥
तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम्।अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता॥
वाङमात्रेण तदा राजा कैकेय्या स्ववशे कृतः।प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः॥
ततः परमुवाचेदं वरदं काममोहितम्।वरौ यौ मे त्वया देव तदा दत्तौ महीपते॥
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः॥
अभिषेकसमारंभो राघवस्योपकल्पितः।अनेनैवाभिषेकेण भरतो मेऽभिषेच्यताम्॥
यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया।तदा दैवासुरे युद्धे तस्य कालोऽयमागतः॥
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः।चीराजिनजटाधारी रामो भवतु तापसः॥
भरतो भजतामद्य यौवराज्यमकण्टकम्।एष मे परमः कामो दत्तमेव वरं वृणे॥
अद्य चैव हि पश्येयं प्रयान्तं राघवं वनम्॥
स राजराजो भव सत्यसङ्गरः कुलं च शीलं च हि रक्ष जन्म च।परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम्॥